जम्मूकाश्मीरराज्यम्
From Wikipedia, the free encyclopedia
जम्मूकाश्मीरराज्यं (कश्मीरी - 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा), जॊम तॖ कऺशीर (देवनागरी), جۆم تہٕ کٔشیٖر (अरबी); डोगरी - जम्मू ते कश्मीर; लदाखी - ཇ་མུ་དང་ཀ་ཤི་མིར།; आङ्ग्ल: Jammu and Kashmir) भारतदेशे उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च केन्द्रप्रशासितः प्रदेशः । पूर्वदेशस्य ‘वेनिस्’ इति एतत् प्रदेशं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । दिल्लीनगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । जहाङ्गीरः बादशाहः काश्मीरं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
जम्मूकाश्मीरम् 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा काश्मीरी) जॊम तॖ कऺशीर (देवनागरी काश्मीरी) جۆم تہٕ کٔشیٖر (अरबी काश्मीरी) जम्मू ते कश्मीर (डोगरी) ཇ་མུ་དང་ཀ་ཤི་མིར། (लदाखी) | |
---|---|
पूर्वराज्यम् १९५४-२०१९ | |
जम्मूकाश्मीरराज्यस्य भूपटम् | |
देशः | India |
स्थापितः | १९४७ -१०-२६ |
राजधानी | |
बृहत्तमं नगरम् | श्रीनगरम् |
मण्डलानि | २२ |
Government | |
• राज्यपालः | manoj sinha |
• मुख्यमन्त्री | [vaccant |
• Legislature | (८९ निर्वाचन-क्षेत्रम्) |
Area | |
• Total | २२२२३६ km२ |
Area rank | ६वां |
Elevation | ३२७ m |
Population (२०११) | |
• Total | १,२५,४८,९२६ |
• Rank | १८वां |
Time zone | UTC+०५:३० (भारतीयप्रमाणसमयः (IST)) |
ISO 3166 code | IN-JK |
मानवसंसाधन सूची | ०.६०१ (मध्यम) |
HDI श्रेणी | १७वां (२००५) |
साक्षरता | ६६.७% (२१वां) |
आधिकारिकभाषाः | उर्दू, कश्मीरी, डोगरी |
Website | jammukashmir.nic.in |
काश्मीरः तु भारतदेशस्य प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते । भारतस्य वायव्यवलये काश्मीरप्रदेशः भासते । १९तमशतकस्य मध्यकाले, हिमालयस्य तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति । अद्यत्वे तु भारतस्य सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । काश्मीरं, जम्मू तथा लडाख् उपत्यकाः अत्र अन्तर्भवन्ति । पाकिस्तानस्य शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, चीनशासने विद्यमानः अक्साय् चीन तथा ट्रान्स-करकोरम्, ट्राक्ट प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयःतान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत् । गच्छताकालेन बौद्धधर्मस्य केन्द्रं जातम् ।