देवनागरी
From Wikipedia, the free encyclopedia
देवनागरी (ब्राह्मी: 𑀤𑁂𑀯𑀦𑀸𑀕𑀭𑀻) लिपिः भारतीयभाषाणां कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । संस्कृत-पालि- हिन्दी-मराठी-कोङ्कणी-सिन्धी-काश्मीरी-डोगरी-नेपाली-तामाङ-गढवळि-बोडो-अङ्गिका-मगही-भोजपुरी-मैथिली-सान्ताली इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पञ्जाबी-बिष्णुप्रिया मणिपुरी-उर्दूभाषासु च एषा एव लिbपिः प्रयुक्ता अस्ति ।
अस्यां लिप्यां ५२ वर्णाः सन्ति । तेषु १४ स्वराः ३८ व्यञ्जनानि च । अक्षराणां क्रमव्यवस्थायां (विन्यासे) वैज्ञानिकपद्धतिः अनुसृता अस्ति | स्वर-व्यञ्जन-कोमल-कठोर-अल्पप्राण-महाप्राण-अनुनासिक्य-अन्तस्थ-उष्म इत्यादि वर्गीकरणञ्च वैज्ञानिकं वर्तते । केनचित् मतानुसारेण देवनगरे (काश्यां) उपयुज्यमाना आसीत् इति कारणेन देवनागरी सञ्जाता ।