हिमालयः
From Wikipedia, the free encyclopedia
भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।
त्वरिततथ्यानि हिमालयः, कोटि ...
हिमालयः | |
---|---|
कोटि | |
शिखरम् | एवरेस्टशिखर (नेपाल एवं चीनः) |
औन्नत्यम् | ८,८४८ m |
यामः | २७°५९′१७″ उत्तरदिक् ८६°५५′३१″ पूर्वदिक् |
भूगोल | |
Countries |
पिदधातु