ओलिम्पिक् क्रीडाकूटः
From Wikipedia, the free encyclopedia
ओलिम्पिक् क्रीडाकूटः कश्चन अन्ताराष्ट्रियः क्रीडाकूटः अस्ति । अस्मिन् क्रीडाकूटे बह्व्यः क्रीडाः अन्तर्भूताः सन्ति । एनं क्रीडाकूटं ग्रीष्मऋतोः क्रीडाकूटः हेमन्तऋतोः क्रीडाकूटः इति विभक्तुं शक्यते । द्वावपि क्रीडाकूटौ चतुर्षु वर्षेषु एकवारम् आयोजितौ भवतः । १९९२ वर्षपर्यन्तं एतौ क्रीडाकूटौ एककाले एव आयोजितौ भवतः स्म । तदनन्तरम् एतयोर्मध्ये द्विवर्षयोः अन्तरं स्थापितम् ।
ग्रीष्मक्रीडाकूटः | |
---|---|
क्रीडावर्षाः | |
| |
क्रीडाः(विषयसूची) | |
|
क्रि.पू.७७६ तमे वर्षे ग्रीस् देशस्य ओलिम्पिया इति नगरे प्रथमः ओलिम्पिक् क्रीडाकूटः आयोजितः आसीत् । अनन्तरं क्रि.श.३९३ वर्षपर्यन्तम् एतदेव अप्रचलत् । कैश्चित् कारणैः स्थगितम् अमुं क्रीडाकूटं पुनरारम्भितुं ग्रीस् देशः, कश्चन पत्रिकासम्पादकः पनाजियोटिस् सौट्सास् च आसक्तिं दत्तवन्तः । अग्रे क्रि.श.१८५९ वर्षे कश्चन इवाञ्जेलिस् झप्पास् नूतनकालस्य प्रप्रथमम् अन्ताराष्ट्रीयम् ओलिम्पिक् क्रीडाकूटं प्रायोजितवान् । क्रि.श्.१८९६ वर्षे फ्रान्स् देशस्य गण्यः ब्यारन् पियरि द कूबर्तिः अन्ताराष्ट्रीयां ओलिम्पिक् समितिं स्थापितवान् । अस्याः संस्थायाः प्रथमं ग्रीष्म-ओलिम्पिक् क्रीडाकूटं ग्रीस् देशस्य अथेन्स् नगरे क्रि.श.१८९६ आयोजितम् । तदा स्वल्पानि राष्ट्राण्येव भागानि भूतानि आसन् । किन्तु अद्य तु विश्वस्य सर्वाणि राष्ट्राणि अस्मिन् भागं वहन्ति इत्यनेन क्रीडाकूटः अगाधरूपेण एधितः अस्ति । उपग्रहसम्पर्कव्यवस्थया जगतः सर्वेषु कोणेषु अपि अस्य कूटस्य साक्षात् प्रसारः साध्यः अभवत् । अनेन एषः कूटः जगत्प्रसिद्धः अभवत् ।
इदानीन्तन ग्रीष्मक्रीडाकूटः क्रि.श.२०१२ वर्षे यूरोप् देशस्य लन्डन् मध्ये प्रचलितः । अग्रे क्रि.श.२०१६ तमे वर्षे ग्रीष्मक्रीडाकूटः ब्रेजिल् देशस्य रियो डि जानिएरो नगरे, हेमन्तक्रीडाकूटः तु क्रि.श.२०१४ तमे वर्षे रष्या देशस्य सोचि नगरे प्रचलिष्यतः ।