स्वामी चिन्मयानन्दः
भारतीय हिन्दू आध्यात्मिक गुरु (1916-1993) / From Wikipedia, the free encyclopedia
स्वामी चिन्मयानन्दः(जीवितकालः क्रि.शा. १९१६तमवर्षस्य मेमासस्य अष्टमदिनतः १९९३तमवर्षस्य आगस्टमासस्य तृतीयदिनपर्यन्तम्) सनातनधर्मस्य संस्कृतेः मूलभूतसिद्धान्तस्य वेदान्तदर्शनस्य माहन् प्रवक्ता । एषः समग्रं भारतदेशम् अटित्वा दृष्टवान् यत् सर्वत्र धर्वसम्बद्धविषयेषु शङ्कायुताः भ्रान्ताः सन्ति इति । तन्निवारयित्वा शुद्धधर्मस्य स्थापनार्थं गीताज्ञानयज्ञम् आरब्धवान् । क्रि.श. १९५३तमे वर्षे चिन्मय मिशन् इति संस्थाम् आरब्धवान् । भगवद्गीताम् अवलम्ब्य अनेन स्वामिना कृताः उपन्यासाः तर्कबद्धाः प्रेरणादायिनः च भवन्ति स्म । अस्य प्रवचनानि श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । एषः सहस्राधिकान् सन्न्यासिनः ब्रह्मचारिणः च अस्मिन् विषये प्रशिक्षितवान् । सहस्राधिकानि स्वाध्यायमण्डलानि संयोजितवान् । विद्यालयचिकित्सालयानाम् आरम्भः इत्यादीनि अनेकानि सामाजिकसेवाकार्याणि आरब्धवान् । स्वामी चिन्मयानन्दः उपनिषत्, भगवद्गीता, शङ्कराचर्यः इत्यादिषु विषयेषु ३५ अधिकान् व्याख्याग्रन्थान् व्यरचयत् । अस्य गीताभाष्यम् अतिविशिष्टम् अस्ति ।