विकिसूक्तिः
From Wikipedia, the free encyclopedia
For linking to or citing Wikiquote, see Wikipedia:Wikiquote.
विकिसूक्तिः इति विक्याधारितपरियोजना विकिमीडियाफौन्डेशन्-द्वारा परिचालितासु परियोजनासु अन्यतमा। एषा मीडियाविकितन्त्रांशे प्रचलति। एषा तु डेनियेल्-आल्स्टन् इत्यस्य मूलविचारे आधृता, तथा च ब्रायोन्-विब्बर-द्वारा कार्यान्विता। एतस्य उद्दिष्टं तु सहकारेण उद्धरणानां महान् सन्दर्भकोशस्य रचना। तानि च उद्धरणानि प्रमुखेभ्यः जनेभ्यः, पुस्तकेभ्यः, चलच्चित्रेभ्यः वा स्युः, अथवा लोकोक्तयः स्युः। तेषां च विवरणं सन्दर्भसहितं दीयते। यद्यपि तत्र उद्धरणानां बहवः संग्रहाः वर्तन्ते, विकिसूक्तिस्तु जनेभ्यः योगदानस्य सौविध्यं ददाति इति दृष्ट्या भिन्नं वर्तते।[2]
त्वरिततथ्यानि जालपृष्ठम्, वाणिज्यिक? ...
Screenshot of the wikiquote.org home page | |
जालपृष्ठम् | www.wikiquote.org |
---|---|
वाणिज्यिक? | No |
प्रकारः | Quotation repository |
पञ्जीकरणम् | Optional |
उपलभ्यमाना भाषा(ः) | Multilingual |
स्वामी | Wikimedia Foundation |
निर्माता | Jimmy Wales and the Wikimedia Community |
प्रकाशनम् | 10, 2003 (2003-07-10) |
एलेक्सा रैङ्क् | फलकम्:IncreaseNegative 3,241 (February 2013[update])[1] |
वर्तमानस्थितिः | active |
पिदधातु