लदाख
From Wikipedia, the free encyclopedia
लदाखम् वा लद्दाख़म् (लद्दाखी: ལ་དྭགས; आङ्ग्ल: Ladakh) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागः भवति, १९४७ तः भारत-पाकिस्थान-चीन-देशानां मध्ये विवादस्य विषयः अभवत् च । लघुतिब्बत् (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।
लदाखम् ལ་དྭགས लद्दाख़ Ladakh | |
---|---|
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति | |
भारतीयप्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित काश्मीरस्य मानचित्रम् | |
Coordinates: 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५ | |
देशः | भारतम् |
केन्द्रशासितप्रदेशः | ३१ अक्टुबर् २०१९[1] |
राजधानी | लेह, कार्गिल |
मण्डलानि | २ |
Government | |
• Body | लदाखप्रशासनम् |
• उपराज्यपालः | राधाकृष्ण माथुरः |
• लोकसभा सांसद | जमयाङ्ग् सेरिङ्ग् नामग्याल् (भाजप) |
• उच्चन्यायालयः | जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः |
Area | |
• Total | ५९,१४६ km२ |
Highest elevation (साल्तोरो काङ्गरी) | ७,७४२ m |
Lowest elevation | २५५० m |
Population (२०११) | |
• Total | २,७४,२८९ |
• Density | ४.६/km२ |
Demonym(s) | लदाखी |
भाषाः | |
• आधिकारिक | हिन्दी आङ्ग्ल च |
• भाषित | लदाखी, पुर्गी, बाल्टी च |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
डाकसूचकाङ्कः सङ्ख्या | |
ISO 3166 code | IN-LA |
Vehicle registration | LA |
Website | ladakh.nic.in |
२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्ययाः भागः आसीत् । लद्दाख् बृहत्तमः द्वितीयः न्यूनतमः जनसङ्ख्यायुक्तः च भारतस्य केन्द्रशासितप्रदेशः ।