भारतीयवायुसेना
From Wikipedia, the free encyclopedia
भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः । सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति । अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत् । सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत् । सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत् । भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम् । स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति । एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत् । भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत् । कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः । भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति । वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति । भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति । अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति । सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति । इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत् । [4]
भारतीयवायुसेना Indian Air Force | |
---|---|
निर्माणम् | 8 October 1932 |
देशः | भारतम् |
भूमिका | Air superiority, reconnaissance, close air support |
सैन्यबलम् | 127,000 personnel Approx. 1,622 aircraft |
विभागीयांशः | Ministry of Defence Indian Armed Forces |
Headquarters | New Delhi, Delhi, India |
ध्येयवाक्यम् | "नभःस्पृशं दीप्तम्" ("Nabhaḥ spr̥śaṁ dīptam") "Touch the Sky with Glory" [1] |
वर्णः | |
वार्षिकोत्सवः | Air Force Day: 8 October[2] |
युद्धानि | Notable Operations
World War II
Indo-Pakistani War of 1947 Congo Crisis Operation Vijay Sino-Indian War Indo-Pakistani War of 1965 Operation Poomalai Operation Pawan Operation Cactus Kargil War |
जालस्थानम् | indianairforce.nic.in |
सेनानायकाः | |
Chief of Air Staff | Air Chief Marshal Arup Raha |
Vice Chief of Air Staff | Air Marshal RK Sharma[3] |
विशिष्टाः सेनानायकाः | Marshal of the Indian Air Force Arjan Singh Air Chief Marshal Pratap Chandra Lal Air Marshal Subroto Mukherjee |
चिह्नम् | |
Air Force Ensign | |
Roundel | |
Fin flash | |
आश्रये विद्यमानानि वायुयानानि | |
आक्रमणम् | Jaguar, MiG-27, Harpy |
वैद्युतिकविमानानि | A-50E/I, DRDO AEW&CS, Ilyushin A-50 |
युद्धविमानानि | Su-30MKI, Mirage 2000, MiG-29, HAL Tejas, MiG-21 |
हेलिकाप्टर् | Dhruv, Chetak, Cheetah, Mi-8, Mi-17, Mi-26, Mi-25/35 |
सर्वेक्षकविमानम् | Searcher II, Heron |
प्रशिक्षकविमानम् | Hawk Mk 132, HPT-32 Deepak, HJT-16 Kiran, Pilatus C-7 Mk II |
कार्गो-विमानम् | C-17 Globemaster III, Il-76, An-32, HS 748, Do 228, Boeing 737, ERJ 135, Il-78 MKI, C-130J |