नाट्यशास्त्रम् (ग्रन्थः)
From Wikipedia, the free encyclopedia
नाट्यशास्त्रम् इति एकः प्राचीनग्रन्थः द्विसहस्रवर्षेभ्यः पूर्वमेव भरताचार्येण कृतः अस्ति । तस्मिन् ग्रन्थे सः नाट्यस्वरूपं नाटकलक्षणं च सम्यक् उक्तवान् । धनञ्जयः नामकः पण्डितः 'दशरूपकम्' इति ग्रन्थं विलिख्य रूपकाणां परिचयं कारितवान् ।
प्रथमं कविना गद्यपद्ययुक्तः, सम्भाषणात्मकः, अभिनययोग्यः कश्चन ग्रन्थः लिख्यते । तत्रत्या कथा रामायणादिषु प्रसिद्धा वा भवेत्, कविकल्पिता वा भवेत् । सः ग्रन्थः नटैः रङ्गे अभिनीयते । एषः अभिनयः, 'प्रयोगः' इति कथ्यते । सहृदयाः सामाजिकाः तं दृष्ट्वा आनन्दमनुभवन्ति । नाटके चतुर्विधाः अभिनयाः भवन्ति - आङ्गिकः, वाचिकः, आहार्यकः, सात्त्विकः चेति । हस्तपादनेत्रादिभिः यः अभिनयः क्रियते सः आङ्गिकः । भाषणं वाचिकः । वेषभूषणादिकम् आहार्यकः । गात्रकम्पनम्, स्वेदः इत्यादयः सात्त्विकाभिनयाः । एतादृशैः अभिनयैः नटाः प्रेक्षकेषु नव रसान् उत्पादयन्ति ।
संस्कृतनाटकेषु प्रथमम् एकं मङ्ग्लपद्यं भवति । 'नान्दी' इति तस्य नाम । तदनन्तरं सूत्रधारः प्रविशति । सः नाटके अभिनेष्यमाणायाः कथायाः सूचनां ददाति । तदनन्तरं नाटकस्य प्रारम्भः भवति । संस्कृतनाटके उत्तमजनाः संस्कृतेन, नीचजनाः स्त्रियः च प्राकृतेन भाषन्ते । रङ्गे जलपानं, भोजनं, अग्निः, युद्धम् इत्येतादृशाः विषयाः न दर्शनीयाः इति नियमः अस्ति । नाटकस्य अन्ते एकः श्लोकः भवति । प्रायः नायक एव इमं श्लोकं पठति । अस्मिन् श्लोके 'लोकाः समस्ताः सुखिनो भवन्तु' इत्येतादृशम् अर्थपूर्णं मङ्गलाशंसनं भवति । अस्य श्लोकस्य 'भरतवाक्यम्' इति नाम ।