दाडिमवृक्षः
From Wikipedia, the free encyclopedia
दाडिमवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । केषुचित् प्रदेशेषु केवलं न वर्धते । तद्विना अफघानिस्ताने, बलूचिस्थाने, इराक् इत्यादिषु देशेषु अपि वर्धते । अयं वृक्षः न महान् अपि तु लघ्वाकारकः । अस्य वृक्षस्य त्वक् धूसरवर्णीयं मृदु च भवति । अस्य वृक्षस्य पर्णानि २.५ – ६.३ से.मीयावत् दीर्घानि भवन्ति । पर्णस्य उपरितनः भागः कान्तियुक्तः भवति । अस्य वृक्षस्य पुष्पं ३ – ८ से.मीयावत् दीर्घं केसरवर्णीयं च भवति । अस्य दाडिमवृक्षस्य फलानि ३.८ – ७.५ से.मीयावत् व्यासयुक्तं भवति ।
तस्य फलस्य त्वक् दृढं भवति । फलस्य अन्तः अनेकानि बीजानि भवन्ति । बीजानाम् उपरि कृशं, पारदर्शकं, मधुररसयुक्तं, पाटलवर्णीयं च किञ्चन आवरणं भवति । इमानि फलानि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । एतेषां वृक्षाणां पर्णानि उपयुज्य ताक्रम् अपि निर्मीयते । अस्य वृक्षस्य त्वक्, फलं पर्णं चापि औषधत्वेन उपयुज्यन्ते ।