तृतीयपानिपतयुद्धम्
From Wikipedia, the free encyclopedia
तृतीयपानिपत्युद्धम् 14 जनवरी तमे दिने 1761 तमे वर्षे देहल्याः 97-किमिदूरे पाण्डवप्रस्थे मराठाफ़्घानपक्षयोर्मध्ये अभूत्। अफ़्घानपक्षस्य नेतृत्वं तु अफ़्घाननरेशः अब्दालिः अपिच रोहिल्लदलम् अवधनरेशः कृतवन्तः। अस्मिन् युद्धे मराठासेनायाः शातग्निः अश्वानीकञ्च आसन् एवम् अफ़्घानसेनायाः अब्दालिनजीबुद्दौलाहनायकत्वे संवीताश्वानीकम् हयारूढशातग्निश्च आसन्।
युद्धमिदं 18-तमस्य शताब्दस्य बहु महत्त्वपूर्णम् अस्ति। [1] प्राचीनरीत्या घटितेषु युद्धेषु अस्मिन् युद्धे हताहतस्य अधिकतमा संख्या आसीत् इति मन्यन्ते इतिहासविद्वांसः।
युद्धस्य स्थानं विवादास्पदमस्ति इतिहासविद्वद्भ्यः परन्तु काला आम्ब् सनौली वीथ्याम् आसीत् इति चिन्तनम् । युद्धे बहुषु दिनेषु 1,25,000 सैनिकाः युद्धं कृतवन्तः। प्रदीर्घानि घर्षणानि घटितानि येषु द्वयोः पक्षयोः हानिः लाभोऽपि जाताः। अब्दालिः बहून् मराठापार्श्व-भागान् ध्वस्त्वा विजयम् प्राप्नोत्। हताहतसङ्ख्या इतिहासकारैः अति विवदिता, परन्तु 60,000–70,000 मारिताः इति मन्यन्ते एवमेव बन्धितानां व्रणितानां संख्याः विविधाः सन्ति। 40,000 बन्धिनः मराठासैनिकाः युद्धानन्तरं नरसंहारे मारिताः इति अवधनरेश-शुजाउददौलस्य मन्त्रिणा काशीराजेन लिखितम्।[2]
ग्रैण्ट्डफ़ेन लिखिते "History of the Marathas" इति नाम्ना पुस्तके अतिजीवितेन मराठासैनिकेन विवरणम् अस्ति येन पूर्वोक्ताम् संख्या दृढीकृता।
1,00,000 हतसंख्यास्ति इति शेजवालकरेण लिखिते "Panipat 1761" इति विवरणे उक्तम्।[3]
युद्धानन्तरम् मराठासाम्राज्यस्य उत्तरे विस्तारः दशवर्षपर्यन्तम् स्थगितः अभवत् यस्मात् उत्तरभारते राजनैतिकस्थितिः अस्थिरासीत्। युद्धानन्तरम् मराठापन्तप्रधानः पेशवामाधवरावोऽभवत् येन मराठासाम्राज्यं पुनरपि दृढीकृतम्। 1771 तमे वर्षे माधवरावेन उत्तरे शासनम् स्थापितुम् अपिच अफ़्घानपक्षस्य दलान् ध्वंसितुम् विशालसेना प्रेषिता। तदानन्तरम् पानीपतयुद्धपर्वम् समाप्तमभवत्।