चणकः
From Wikipedia, the free encyclopedia
भारते वर्धमानः कश्चन धान्यविशेषः चणकः । अयं चणकः सस्यजन्यः आहारपदार्थः । चणकम् आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । अश्वानां परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि घृतस्य योजनेन वातदोषः निवारितः भवति । हिरिमन्थः, वाजिमन्थः, सुगन्धः, सकलप्रियः, जीवनः इत्यादीनि नामानि सन्ति चणकस्य । सस्यशास्त्रज्ञाः Cicerone Haem इति वदन्ति । चणके अपि वर्णभेदानुसारं बहुविधाः चणकाः सन्ति । तत्र कृष्णचणकः, गौरचणकः, श्वेतचणकः च प्रसिद्धाः । चणकेन क्वथितं, पौलिं, पञ्चकज्जायं, सूपं च निर्मान्ति । कर्णाटके प्रसिद्धं “मैसूरुपाक्” इत्याख्यं मधुरभक्ष्यम् अपि निर्मीयते चणकेन एव । नवग्रहेषु अन्यतमस्य गुरोः श्रेष्ठं धान्यं चणकः ।