काञ्चनजुङ्गा
काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु तृतीयस्थाने वर्तते। नेपाळदेशस्य, भारतस्य सिक्कि / From Wikipedia, the free encyclopedia
काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु तृतीयस्थाने वर्तते। नेपाळदेशस्य, भारतस्य सिक्किं राज्यस्य च मध्ये अयं शिखरः अस्ति। समुद्राद् ८५८६ मीटर्(२८,१६९ फीट्) उपरि काञ्चनजुङ्गाशिखरः स्थितः। एतस्य पश्चिमे तामूर् नदी उत्तरे च लोनाक् चु नदी प्रवहति। काञ्चनजुङ्गा इति पदस्यार्थः हिमस्य पञ्च धनागाराः इति। काञ्चन्जुङ्गापर्वतं लिम्बुभाषया सेवालुङ्ग्म इति कथयन्ति। तस्यार्थः भवति हिमालयं नमामः इति। किरन्त्जनाः काढ्जनजुङ्गा शिखरम् अत्यन्तं पवित्रं मन्वते।