आहारः
From Wikipedia, the free encyclopedia
आहारः ( ( शृणु) /ˈɑːhɑːrəhə/) (हिन्दी: आहार, आङ्ग्ल: Diet) नाम “आहर्यते गलादधो नीयत इति आहारः” [1] । आहारः जन्तूनां जीवनस्य महत्त्वपूर्णं पोषकतत्त्वं वर्तते । यः अन्ननलिकया आह्रियते, सः आहारः कथ्यते । आहारस्वास्थ्ययोः परस्परः सम्बन्धः वर्तते । आहारेण सुस्वास्थ्यं प्राप्यते । दुषिताहारेण, असन्तुलिताहारेण च स्वास्थ्ये हानिः अपि जायते । अतः आहारः एव जीवनस्य कारणम् इति । गीतायामपि लिखितम् अस्ति यत् -
“ |
|
” |
आहारः जीविनां जीवनस्य प्रधानम् अङ्गम् । “आह्रियन्ते इति आहाराः” इति वयं जानीमः एव । बाह्यं किञ्चन वस्तु शरीरस्य अन्तः प्रविश्य तत्रैव अन्तर्भूत्वा अस्माकं स्वरूपस्य निर्माणस्य कारणं भवति । अन्नस्य सूक्ष्मभागात् एव मनसः निर्मितिः भवति । अद्य वयम् एवं स्मः इत्यस्य पृष्ठभूमिकायाम् अस्माभिः सेवितः आहारः एव अस्ति इति ज्ञायते चेत् आहारस्य महत्त्वम् अवगतम् इति अर्थः । गर्भादारभ्य मरणपर्यन्तं जीवनार्थम् अस्मात् पञ्चभौतिकप्रपञ्चात् यद्यत् स्वीकुर्मः तत्सर्वम् अपि आहारः एव । न केवलम् उदरम्भरणार्थम् अवश्यभूतानि घन-द्रवरूपाणि अन्नक्षीरादीनि आहारत्वेन उच्यन्ते अपि तु जलं, वायुः, प्रकाशः, आकाशः, औष्ण्यम् इत्यादीनि अपि आहारः एव । अन्नक्षीरादीनि न सन्ति चेदपि कतिपय दिनानि जीवामः किन्तु जलमेव नास्ति चेत् कति दिनानि जीवामः ? जलं नास्ति चेदपि कथञ्चित् कतिपय दिनानि जीवामः, वायुरेव नास्ति चेत् कति निमेषान् जीवामः ? यदि आकाशेण स्वस्मिन् किञ्चिन्मात्रेण अपि अवकाशः न कल्पितः स्यात् तर्हि कुत्र अस्माकं जीवनम् ? अतः अस्माकं देहस्य धारणपोषणांशाः पृथ्वी, अप्, तेजस्, वायुः, आकाशः इत्येतैः पञ्चभूतैः निर्मिताः सन्ति । देहस्य मूलघटकाः शुक्रशोणिताः अपि एतैः पञ्चभूतैः एव बाह्यरूपं प्राप्नुवन् । भगवतः सृष्टौ असंख्याः आहारपदार्थाः सन्ति एव । तत्सर्वम् अपि मनुष्यमात्रस्य उपयोगाय इत्येव न निर्मितं भगवता । कालानुगुणं मनुष्यस्य उपयोगाय न भवेयुः इत्यपि न । अत्र काचित् व्यवस्था आवश्यकी । “अहं कः ? मम शरीरस्य सहजाः गुणाः के ? वात-पित्त-श्लेष्मेषु प्रधानधातुः कः मम शरीरे ? मम मनः कीदृशम् ? सत्त्वं,रजस्, तमस् इत्येतेषु प्राधान्यं कस्य ? देहस्य मनसः च आरोग्यकरी स्थितिः का ? अनारोग्यकरी स्थितिः का ? देहे विद्यमाना बाल्याद्यवस्था का ? मम कार्यं कीदृशम् ? कः कालः ? देशः कः ? स्त्री वा पुरुषो वा ? मम वर्णव्यवस्था का ? इत्यादीनां बहुविधानां परिस्थितीनाम् अनुगुणम् अस्माकम् आहारस्य निर्णयः भवति । तथा चेदेव सः आहारः अस्माकं शरीरं मनः च सम्यग्रूपेण पालयति ।
सृष्टेः विकासस्य अन्तिमं पदम् एव “पृथ्वी” । एतस्याम् अन्यानि सर्वाणि भूतानि (अप्, तेजस्, वायुः, आकाशः च) प्रमाणतारतम्येन निहितानि सन्ति । अतः एव सा पृथ्वी “विश्वम्भरा” इति उच्यते । स्वस्य शरीरात् जीवकोटिनां निमित्तम् आवश्यकं द्रव-द्रव्यादिकं यच्छन्ती जीवनस्य आश्रयभूता सा “अवनिः” इत्यपि उच्यते । सा न केवलं शरीरस्य पालनं करोति अपि तु देहस्य धारणपोषणकार्ये जीवस्य सारथिरूपेण स्थित्वा देहरथं नयमानं मनः अपि निरूपयति । एवं पृथिव्याः पात्रं सुमहत् अस्ति । अतः एव सा मातृरूपिणी इति उक्तम् अस्माकं पूर्वजैः । “माता भूमिः पुत्रोहं पृथिव्याः” इत्यत्र भूमिः अथवा पृथ्वी माता, अहं तस्याः पुत्रः इति निर्दिष्टम् । भूमातुः उपकारः महान् । तम् उपकारं वर्णयितुं पदानि एव अपर्याप्तानि स्युः अस्माकं पदसङ्ग्रहे । अनन्तसंख्याकानां जीविनां निमित्तं तेषां देहस्य, इन्द्रियाणां, मनसः च स्वरूपस्य स्वभावस्य च अनुगुणम् असंख्यविधान् घन-द्रवरूपान् आहारपदार्थान् सृजति सा । तस्याः भूमातुः अनुग्रहादेव सर्वेपि जीविनः मनसः शरीरस्य पोषणाय वर्धनाय च निरन्तरम् आहारं प्राप्नुवन्ति । जीवः रसरूपस्य परमात्मनः किञ्चित् स्फुलिङ्गम् । प्रत्येकः अपि जीवः रसरूपस्य परमात्मनः अनुभवस्य प्राप्त्यर्थम् आवश्यकीं स्थितिं प्राप्नोति इत्यत्र भूमातुः योगदानं वर्णनातीतम् । सृष्टौ शिखरसदृशाय मानवाय तु रसरूपस्य परमात्मनः परंज्योतिरूपस्य अनुभवस्य प्राप्त्यर्थम् अनुकूलकराणां देहेन्द्रियाणां मनोवृत्तीनां च पालनपोषणाय अनेकान् रसमयान् पदार्थान् यच्छन्ती सा “रसा” इति एव निर्दिष्टा ।
भूमौ प्राप्यमाणेषु आहारपदार्थेषु मधुरः, आम्लः, लवणः, कटुः, कषायः, तिक्तः इति षड् विधेषु रसेषु कश्चन रसः तु भवति एव । तण्डुलाः, गोधूमाः, मुद्गाः, माषाः, शाकानि, फलानि, मूलानि, पुष्पाणि, धान्यानि एवं सस्यजन्याः आहाराः ये सन्ति तेषु सर्वेषु एते षड्रसाः विभिन्नप्रमाणेन सन्ति । तेषां पदार्थानां विभिन्नप्रमाणेन योजनेन बहुविधाः आहाराः सिद्धाः भवन्ति । ते सर्वे अपि अस्माकं शरीरं मनः च पोषयन्ति । ते एव आहाराः देहस्य घटकाणां रसं, रक्तं, मांसं, मज्जा, मेदः, शुक्रम्, अस्थि इत्याख्यान् सप्तधातून् वर्धयन्तः मनसः आरोग्यं पोषयन्तः, हृदये अपि रसं पूरयन्तः सन्ति । विभिन्नेन प्रमाणेन रसानां योजनेन यथा आहारस्य नूतनानि रूपाणि सृष्टानि सन्ति तथैव पदार्थानां संयोगेन अपि आहारस्य नवरूपाणि सृष्टानि सन्ति । एवं रसानां सम्यग्रूपस्य संयोगेन सज्जीकृतः आहारः मनः देहेन्द्रियाणि च सन्तर्पयति ।